Sukta 8.26
तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । अवांस्या वृणीमहे ॥
तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत । अवां॒स्या वृ॑णीमहे ॥
táva vāyav ṛtáspate tváṣṭur jāmātara adbhuta | avā́ṃsyā́ vṛṇīmahe ||
Thine, O Vāyu, lord of the Truth-Order, wondrous son-in-law of Tvaṣṭṛ—thy helps we choose and take to ourselves.
तव॑ । वा॒यो॒ इति॑ । ऋ॒तः॒ऽप॒ते॒ । त्वष्टुः॑ । जा॒मा॒तः॒ । अ॒द्भु॒त॒ । अवां॑सि । आ । वृ॒णी॒म॒हे॒ ॥तव । वायो इति । ऋतःपते । त्वष्टुः । जामातः । अद्भुत । अवांसि । आ । वृणीमहे ॥tava | vāyo iti | ṛtaḥ-pate | tvaṣṭuḥ | jāmātaḥ | adbhuta | avāṃsi | ā | vṛṇīmahe