Sukta 8.26
युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु । अतूर्तदक्षा वृषणा वृषण्वसू ॥
यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ । अतू॑र्तदक्षा वृषणा वृषण्वसू ॥
yuvóru ṣū́ ráthaṃ huve sadhá-stutyāya sū́riṣu | atū́rta-dakṣā vṛṣaṇā vṛṣaṇvasū ||
Your chariot I call at once, O Aśvins, for the common hymn of the illumined leaders; you whose power of accomplishment is unbeaten—O strong ones, lords of the abundant force.
यु॒वोर् ऊँ॒ इति॑ । सु । रथ॑म् । हु॒वे॒ । स॒धऽस्तु॑त्याय । सू॒रिषु॑ । अतू॑र्तऽदक्षा । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥युवोर् ऊँ इति । सु । रथम् । हुवे । सधस्तुत्याय । सूरिषु । अतूर्तदक्षा । वृषणा । वृषण्वसू इति वृषण्वसू ॥yuvor oṃ iti | su | ratham | huve | sadha-stutyāya | sūriṣu | atūrta-dakṣā | vṛṣaṇā | vṛṣaṇvasūitivṛṣaṇ-vasū