Sukta 8.26
उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् । सिन्धुर्हिरण्यवर्तनिः ॥
उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना॑म् । सिन्धु॒र्हिर॑ण्यवर्तनिः ॥
utá syā́ śvéta-yā́varī vā́hiṣṭhā vāṃ nadī́nām | síndhur híraṇya-vartaníḥ ||
And that white-moving (stream), the best carrier among the rivers for you two—the Sindhu with her golden pathways—becomes your swift passage of approach.
उ॒त । स्या । श्वे॒त॒ऽयाव॑री । वाहि॑ष्ठा । वा॒म् । न॒दीना॑म् । सिन्धुः॑ । हिर॑ण्यऽवर्तनिः ॥उत । स्या । श्वेतयावरी । वाहिष्ठा । वाम् । नदीनाम् । सिन्धुः । हिरण्यवर्तनिः ॥uta | syā | śveta-yāvarī | vāhiṣṭhā | vām | nadīnām | sindhuḥ | hiraṇya-vartani ḥ