Sukta 8.26
यददो दिवो अर्णव इषो वा मदथो गृहे । श्रुतमिन्मे अमर्त्या ॥
यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे । श्रु॒तमिन्मे॑ अमर्त्या ॥
yád adó divó arṇavé iṣó vā mádatho gṛhé | śrutám ín me amartyā́ ||
Whether there, in the ocean of heaven, or here in the house of our striving you take delight in the powers of nourishment—yet surely, O immortals, my call has been heard.
यत् । अ॒दः । दि॒वः । अ॒र्ण॒वे । इ॒षः । वा॒ । मद॑थः । गृ॒हे । श्रु॒तम् । इत् । मे॒ । अ॒म॒र्त्या॒ ॥यत् । अदः । दिवः । अर्णवे । इषः । वा । मदथः । गृहे । श्रुतम् । इत् । मे । अमर्त्या ॥yat | adaḥ | divaḥ | arṇave | iṣaḥ | vā | madathaḥ | gṛhe | śrutam | it | me | amartyā