Sukta 8.26
वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा । युवाभ्यां भूत्वश्विना ॥
वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा । यु॒वाभ्यां॑ भूत्वश्विना ॥
vā́hiṣṭho vāṃ hávānāṃ stómo dūtó huvan narā́ | yuvā́bhyāṃ bhūtv aśvinā ||
This hymn of invocation, the best carrier, becomes a messenger calling you, O two strong ones; may it be made one with you both, O Aśvins.
वाहि॑ष्ठः । वा॒म् । हवा॑नाम् । स्तोमः॑ । दू॒तः । हु॒व॒त् । न॒रा॒ । यु॒वाभ्या॑म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥वाहिष्ठः । वाम् । हवानाम् । स्तोमः । दूतः । हुवत् । नरा । युवाभ्याम् । भूतु । अश्विना ॥vāhiṣṭhaḥ | vām | havānām | stomaḥ | dūtaḥ | huvat | narā | yuvābhyām | bhūtu | aśvinā