Sukta 8.26
यो वामुरुव्यचस्तमं चिकेतति नृपाय्यम् । वर्तिरश्विना परि यातमस्मयू ॥
यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्य॑म् । व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥
yó vāṃ uruvyácas-tamaṃ cíkētati nṛ-pā́yyam | vártīr aśvinā pári yātam asmayū́ ||
He who perceives your widest-ranging protection for men—O Aśvins, journey around (and encompass) him as a guarding path, for he is yours in aspiration.
यः । वा॒म् । उ॒रु॒व्यचः॑ऽतमम् । चिके॑तति । नृ॒ऽपाय्य॑म् । व॒र्तिः । अ॒श्वि॒ना॒ । परि॑ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥यः । वाम् । उरुव्यचःतमम् । चिकेतति । नृपाय्यम् । वर्तिः । अश्विना । परि । यातम् । अस्मयू इत्यस्मयू ॥yaḥ | vām | uruvyacaḥ-tamam | ciketati | nṛ-pāyyam | vartiḥ | aśvinā | pari | yātam | asmayū ity asma-yū