Sukta 8.26
यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव । सपर्यन्ता शुभे चक्राते अश्विना ॥
यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व । स॒प॒र्यन्ता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥
yó vāṃ yajñébhi rā́vṛto 'dhívastṛā vadhū́r iva | saparyántā śubhé cakrāte aśvinā́ ||
He who has wrapped you both with sacrifices, as a bride is clothed with her garments—serving you, he fashions a luminous beauty of being, O Aśvins.
यः । वा॒म् । य॒ज्ञेभिः॑ । आऽवृ॑तः । अधि॑ऽवस्त्रा । व॒धूःऽइ॑व । स॒प॒र्यन्ता॑ । शु॒भे । च॒क्रा॒ते॒ इति॑ । अ॒श्विना॑ ॥यः । वाम् । यज्ञेभिः । आवृतः । अधिवस्त्रा । वधूःइव । सपर्यन्ता । शुभे । चक्राते इति । अश्विना ॥yaḥ | vām | yajñebhiḥ | āvṛtaḥ | adhi-vastrā | vadhūḥ-iva | saparyantā | śubhe | cakrāteiti | aśvinā