Sukta 8.26
अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम् । नेदीयसः कूळयातः पणीँरुत ॥
अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव॑म् । नेदी॑यसः कूळयातः प॒णीँरु॒त ॥
aśvinā́ svṛ́ṣe stúhi kúvit te śrávato hávam | nédī́yasaḥ kūḷayātaḥ paṇī́ṃr utá ||
O seer, praise the Aśvins with a free-flowing utterance; perhaps they will hear the call. May they draw nearer, driving away even the Paṇis—those hoarders who obstruct the offerings and the light.
अ॒श्विना॑ । सु । ऋ॒षे॒ । स्तु॒हि॒ । कु॒वित् । ते॒ । श्रव॑तः । हव॑म् । नेदी॑यसः । कू॒ळ॒या॒तः॒ । प॒णीन् । उ॒त ॥अश्विना । सु । ऋषे । स्तुहि । कुवित् । ते । श्रवतः । हवम् । नेदीयसः । कूळयातः । पणीन् । उत ॥aśvinā | su | ṛṣe | stuhi | kuvit | te | śravataḥ | havam | nedīyasaḥ | kūḷayātaḥ | paṇīn | uta