Sukta 8.26
वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् । सुमतिभिरुप विप्राविहा गतम् ॥
व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यन्तो॑ व्यश्व॒वत् । सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम् ॥
vayáṃ hí vā́m hávāmaha ukṣaṇyánto vyaśvá-vat | sumatíbhir úpa viprāv ihá̄́ ā́ gatam ||
For we indeed call you both, growing in the soul’s virile force and in the plenitude of energies; come here to us, O two illumined ones, drawing near with your happy leadings (right inspirations).
व॒यम् । हि । वा॒म् । हवा॑महे । उ॒क्ष॒ण्यन्तः॑ । व्य॒श्व॒ऽवत् । सु॒म॒तिऽभिः॑ । उप॑ । वि॒प्रौ॒ । इ॒ह । आ । ग॒त॒म् ॥वयम् । हि । वाम् । हवामहे । उक्षण्यन्तः । व्यश्ववत् । सुमतिभिः । उप । विप्रौ । इह । आ । गतम् ॥vayam | hi | vām | havāmahe | ukṣaṇyantaḥ | vyaśva-vat | sumati-bhiḥ | upa | viprau | iha | ā | gatam