Sukta 8.21
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु वः स्तुषे । सखाय इन्द्रमूतये ॥
यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे । सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
yó na idám-idam purā́ prá vásya āninā́ya tám u vaḥ stuṣe | sakhā́ya índram ūtáye ||
He who long ago brought to us, again and again, the more excellent wideness and well-being—him I praise for you, O comrades: Indra for the help that saves and uplifts.
यः । नः॒ । इ॒दम्ऽइ॑दम् । पु॒रा । प्र । वस्यः॑ । आ॒ऽनि॒नाय॑ । तम् । ऊँ॒ इति॑ । वः॒ । स्तु॒षे॒ । सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥यः । नः । इदम्इदम् । पुरा । प्र । वस्यः । आनिनाय । तम् । ऊँ इति । वः । स्तुषे । सखायः । इन्द्रम् । ऊतये ॥yaḥ | naḥ | idam-idam | purā | pra | vasyaḥ | ānināya | tam | oṃ iti | vaḥ | stuṣe | sakhāyaḥ | indram | ūtaye