Sukta 8.20
मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति । अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ॥
मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति । अधि॑ नो गात मरुत॒: सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥
mártaś cid vo nṛtavo rukmá-vakṣasa úpa bhrātṛtvám ā́yati | adhí no gāta marutaḥ sadā́ hí va ā́pi-tvam ásti ní-dhruvi ||
Even a mortal, O dancers with golden breasts, can approach your brotherhood; therefore come and take your seat within us, O Maruts—for your near-kinship is always there, firm and unshaken, ready to be made active.
मर्तः॑ । चि॒त् । वः॒ । नृ॒त॒वः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । उप॑ । भ्रा॒तृ॒ऽत्वम् । आ । अ॒य॒ति॒ । अधि॑ । नः॒ । गा॒त॒ । म॒रु॒तः॒ । सदा॑ । हि । वः॒ । आ॒पि॒ऽत्वम् । अस्ति॑ । निऽध्रु॑वि ॥मर्तः । चित् । वः । नृतवः । रुक्मवक्षसः । उप । भ्रातृत्वम् । आ । अयति । अधि । नः । गात । मरुतः । सदा । हि । वः । आपित्वम् । अस्ति । निध्रुवि ॥martaḥ | cit | vaḥ | nṛtavaḥ | rukma-vakṣasaḥ | upa | bhrātṛ-tvam | ā | ayati | adhi | naḥ | gāta | marutaḥ | sadā | hi | vaḥ | āpi-tvam | asti | ni-dhruvi