Sukta 8.20
ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये । अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम् ॥
ये चार्ह॑न्ति म॒रुत॑: सु॒दान॑व॒: स्मन्मी॒ळ्हुष॒श्चर॑न्ति॒ ये । अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वम् ॥
yé cā́rhanti marútaḥ sudā́naváḥ smán mīḷhúṣaś cáranti yé | átaś cidā́ na úpa vásyasā hṛdā́ yúvāna ā́ vavṛdhvam ||
You who deserve (our call), O Maruts, generous givers—who move as those who favour; even from this side, come near to us with a kinder heart; O youthful powers, grow (in us), increase.
ये । च॒ । अर्ह॑न्ति । म॒रुतः॑ । सु॒ऽदान॑वः । स्मत् । मी॒ळ्हुषः॑ । चर॑न्ति । ये । अतः॑ । चि॒त् । आ । नः॒ । उप॑ । वस्य॑सा । हृ॒दा । युवा॑नः । आ । व॒वृ॒ध्व॒म् ॥ये । च । अर्हन्ति । मरुतः । सुदानवः । स्मत् । मीळ्हुषः । चरन्ति । ये । अतः । चित् । आ । नः । उप । वस्यसा । हृदा । युवानः । आ । ववृध्वम् ॥ye | ca | arhanti | marutaḥ | su-dānavaḥ | smat | mīḷhuṣaḥ | caranti | ye | ataḥ | cit | ā | naḥ | upa | vasyasā | hṛdā | yuvānaḥ | ā | vavṛdhvam