Sukta 8.20
यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः । युवानस्तथेदसत् ॥
यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वश॒न्त्यसु॑रस्य वे॒धस॑: । युवा॑न॒स्तथेद॑सत् ॥
yáthā rudrásya sūnávो divó váśanty ásurasya vedhásaḥ | yúvānas táthéd ásat ||
As the sons of Rudra dwell in the wideness of heaven, in the mastery of the divine Builder—so may you, the young powers, be (established) indeed.
यथा॑ । रु॒द्रस्य॑ । सू॒नवः॑ । दि॒वः । वश॑न्ति । असु॑रस्य । वे॒धसः॑ । युवा॑नः । तथा॑ । इत् । अ॒स॒त् ॥यथा । रुद्रस्य । सूनवः । दिवः । वशन्ति । असुरस्य । वेधसः । युवानः । तथा । इत् । असत् ॥yathā | rudrasya | sūnavaḥ | divaḥ | vaśanti | asurasya | vedhasaḥ | yuvānaḥ | tathā | it | asat