Sukta 8.20
यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ । अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥
यस്യ॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ । अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥
yásya vā yūyáṃ práti vājíno nara ā́ havyā́ vītáye gáthā | abhí ṣá dyumnáir utá vā́jasātibhiḥ sumnā́ vo dhūtáyo naśat ||
To whom you, O impetuous lords of the journey, come in response—to enjoy the offerings—upon him you descend with your luminous powers and victories of plenitude; your glad benedictions reach him, O swift ones.
यस्य॑ । वा॒ । यू॒यम् । प्रति॑ । वा॒जिनः॑ । न॒रः॒ । आ । ह॒व्या । वी॒तये॑ । ग॒थ । अ॒भि । सः । द्यु॒म्नैः । उ॒त । वाज॑सातिऽभिः । सु॒म्ना । वः॒ । धू॒त॒यः॒ । न॒श॒त् ॥यस्य । वा । यूयम् । प्रति । वाजिनः । नरः । आ । हव्या । वीतये । गथ । अभि । सः । द्युम्नैः । उत । वाजसातिभिः । सुम्ना । वः । धूतयः । नशत् ॥yasya | vā | yūyam | prati | vājinaḥ | naraḥ | ā | havyā | vītaye | gatha | abhi | saḥ | dyumnaiḥ | uta | vājasāti-bhiḥ | sumnā | vaḥ | dhūtayaḥ | naśat