Sukta 8.20
तान्वन्दस्व मरुतस्ताँ उप स्तुहि तेषां हि धुनीनाम् । अराणां न चरमस्तदेषां दाना मह्ना तदेषाम् ॥
तान्व॑न्दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नाम् । अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षाम् ॥
tā́n vandasva marútas tā́ṃ úpa stuhi téṣāṃ hí dhunī́nām | arā́ṇāṃ ná caramáś tád eṣāṃ dā́nā mahnā́ tád eṣām ||
Salute those Maruts; draw near and praise them. For of those tumultuous powers, like the spokes, there is no last limit: such is their giving, such is their greatness.
तान् । व॒न्द॒स्व॒ । म॒रुतः॑ । तान् । उप॑ । स्तु॒हि॒ । तेषा॑म् । हि । धुनी॑नाम् । अ॒राणा॑म् । न । च॒र॒मः । तत् । ए॒षा॒म् । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् ॥तान् । वन्दस्व । मरुतः । तान् । उप । स्तुहि । तेषाम् । हि । धुनीनाम् । अराणाम् । न । चरमः । तत् । एषाम् । दाना । मह्ना । तत् । एषाम् ॥tān | vandasva | marutaḥ | tān | upa | stuhi | teṣām | hi | dhunīnām | arāṇām | na | caramaḥ | tat | eṣām | dānā | mahnā | tat | eṣām