Sukta 8.20
येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे । वयो न पित्र्यं सहः ॥
येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे । वयो॒ न पित्र्यं॒ सह॑: ॥
yéṣām árṇo ná sa-práthो nā́ma tvéṣaṃ śáśvatām ékam íd bhujé | váyo ná pitryáṃ sáhaḥ ||
They whose force is like a swelling flood—wide-spreading—whose name is the ever-bright one Power, one alone to be embraced; their might is like an ancestral vital strength that sustains.
येषा॑म् । अर्णः॑ । न । स॒ऽप्रथः॑ । नाम॑ । त्वे॒षम् । शश्व॑ताम् । एक॑म् । इत् । भु॒जे । वयः॑ । न । पित्र्य॑म् । सहः॑ ॥येषाम् । अर्णः । न । सप्रथः । नाम । त्वेषम् । शश्वताम् । एकम् । इत् । भुजे । वयः । न । पित्र्यम् । सहः ॥yeṣām | arṇaḥ | na | sa-prathaḥ | nāma | tveṣam | śaśvatām | ekam | it | bhuje | vayaḥ | na | pitryam | sahaḥ