Sukta 8.20
त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे । स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः ॥
त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे । स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रिय॑: ॥
tá ugrā́so vṛ́ṣaṇa ugrábāhavo nákiṣ tanū́ṣu yetire | sthirā́ dhanvā́ny ā́yudhā rátheṣu vo'nī́keṣv ádhi śríyaḥ ||
They are the fierce ones, the bull-like, with arms of might; none can overtake them in their bodies of force. Firm are their bows, their weapons on the chariots; upon your battle-fronts rests the splendour.
ते । उ॒ग्रासः॑ । वृष॑णः । उ॒ग्रऽबा॑हवः । नकिः॑ । त॒नूषु॑ । ये॒ति॒रे॒ । स्थि॒रा । धन्वा॑नि । आऽयु॑धा । रथे॑षु । वः॒ । अनी॑केषु । अधि॑ । श्रियः॑ ॥ते । उग्रासः । वृषणः । उग्रबाहवः । नकिः । तनूषु । येतिरे । स्थिरा । धन्वानि । आयुधा । रथेषु । वः । अनीकेषु । अधि । श्रियः ॥te | ugrāsaḥ | vṛṣaṇaḥ | ugra-bāhavaḥ | nakiḥ | tanūṣu | yetire | sthirā | dhanvān i | āyudhā | ratheṣu | vaḥ | anīkeṣu | adhi | śriyaḥ