Sukta 8.20
समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु । दविद्युतत्यृष्टयः ॥
स॒मा॒नम॒ञ्ज्ये॑षां॒ वि भ्रा॑जन्ते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ । दवि॑द्युतत्यृ॒ष्टय॑: ॥
samānam añjyèṣāṃ ví bhrājante rukmā́so ádhi bāhúṣu | davídyutat-yṛṣṭáyaḥ ||
One and the same is their inner anointing and formation; their golden powers shine out upon their arms. Their spears flash—vibrations of luminous will-force.
स॒मा॒नम् । अ॒ञ्जि । ए॒षा॒म् । वि । भ्रा॒ज॒न्ते॒ । रु॒क्मासः॑ । अधि॑ । बा॒हुषु॑ । दवि॑द्युतति । ऋ॒ष्टयः॑ ॥समानम् । अञ्जि । एषाम् । वि । भ्राजन्ते । रुक्मासः । अधि । बाहुषु । दविद्युतति । ऋष्टयः ॥samānam | añji | eṣām | vi | bhrājante | rukmāsaḥ | adhi | bāhuṣu | davidyutati | ṛṣṭayaḥ