Sukta 8.20
वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना । आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥
वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना । आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥
vṛṣaṇaśvéna maruto vṛ́ṣa-psunā ráthena vṛ́ṣa-nābhinā | ā́ śyenā́so ná pakṣíṇo vṛ́thā nárō havyā́ no vītáye gátá ||
O Maruts, with your bull-steeds, with the bull-impelled chariot whose nave is strength, come like hawks, winged and swift, not in vain, O heroes. Come for the enjoyment of our offerings—enter the feast of the inner sacrifice.
वृ॒ष॒ण॒श्वेन॑ । म॒रु॒तः॒ । वृष॑ऽप्सुना । रथे॑न । वृष॑ऽनाभिना । आ । श्ये॒नासः॑ । न । प॒क्षिणः॑ । वृथा॑ । न॒रः॒ । ह॒व्या । नः॒ । वी॒तये॑ ग॒त॒ ॥वृषणश्वेन । मरुतः । वृषप्सुना । रथेन । वृषनाभिना । आ । श्येनासः । न । पक्षिणः । वृथा । नरः । हव्या । नः । वीतये गत ॥vṛṣaṇaśvena | marutaḥ | vṛṣa-psunā | rathena | vṛṣa-nābhinā | ā | śyenāsaḥ | na | pakṣiṇaḥ | vṛthā | naraḥ | havyā | naḥ | vītayegata