Sukta 8.19
सो अद्धा दाश्वध्वरोऽग्ने मर्तः सुभग स प्रशंस्यः । स धीभिरस्तु सनिता ॥
सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्त॑: सुभग॒ स प्र॒शंस्य॑: । स धी॒भिर॑स्तु॒ सनि॑ता ॥
só addhā dā́śvadhvaro’gne mártaḥ subhaga sá praśáṃsyaḥ | sá dhī́bhir astu sánitā ||
Truly, O Agni, that mortal who gives and offers the sacrifice becomes fortunate; he is worthy of praise. Let him, by his illumined thoughts, be a winner—one who attains.
सः । अ॒द्धा । दा॒शुऽअ॑ध्वरः । अग्ने॑ । मर्तः॑ । सु॒ऽभ॒ग॒ । सः । प्र॒ऽशंस्यः॑ । सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता ॥सः । अद्धा । दाशुअध्वरः । अग्ने । मर्तः । सुभग । सः । प्रशंस्यः । सः । धीभिः । अस्तु । सनिता ॥saḥ | addhā | dāśu-adhvaraḥ | agne | martaḥ | su-bhaga | saḥ | pra-śaṃsyaḥ | saḥ | dhībhiḥ | astu | sanitā