Sukta 8.19
प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः । त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम् ॥
प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्य॑: । त्वे क्षेमा॑सो॒ अपि॑ सन्ति सा॒धव॒स्त्वं राजा॑ रयी॒णाम् ॥
praśáṃsamāno átithir ná mitriyó’gnī rátho ná védyaḥ | tvé kṣémāso ápi santi sā́dhavas tváṃ rājā rayīṇā́m ||
When he is praised, Agni becomes like a welcome guest, like a friend; like a chariot he is to be known as the carrier of our progress. In you are the sure safeties and the right fulfillments; you are the king of the rayi—our plenitude of being.
प्र॒ऽशंस॑मानः । अति॑थिः । न । मि॒त्रियः॑ । अ॒ग्निः । रथः॑ । न । वेद्यः॑ । त्वे॒ इति॑ । क्षेमा॑सः । अपि॑ । स॒न्ति॒ । सा॒धवः॑ । त्वम् । राजा॑ । र॒यी॒णाम् ॥प्रशंसमानः । अतिथिः । न । मित्रियः । अग्निः । रथः । न । वेद्यः । त्वे इति । क्षेमासः । अपि । सन्ति । साधवः । त्वम् । राजा । रयीणाम् ॥pra-śaṃsamānaḥ | atithiḥ | na | mitriyaḥ | agniḥ | rathaḥ | na | vedyaḥ | tveit i | kṣemāsaḥ | api | santi | sādhavaḥ | tvam | rājā | rayīṇām