Sukta 8.19
यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते । सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥
यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑र॒: स सा॑धते । सो अर्व॑द्भि॒: सनि॑ता॒ स वि॑प॒न्युभि॒: स शूरै॒: सनि॑ता कृ॒तम् ॥
yásya tvám ūrdhvó adhvarā́ya tíṣṭhasi kṣayádvīraḥ sá sādhate | só arvádbhiḥ sánitā sá vipanyúbhiḥ sá śū́raiḥ sánitā kṛtám ||
He for whom you stand upright for the sacrifice—he whose house grows in heroic strength—he achieves. With his steeds of force he becomes an attainer; with his aspiring energies, with his heroes, he wins what is to be done and made real.
यस्य॑ । त्वम् । ऊ॒र्ध्वः । अ॒ध्व॒राय॑ । तिष्ठ॑सि । क्ष॒यत्ऽवी॑रः । सः । सा॒ध॒ते॒ । सः । अर्व॑त्ऽभिः । सनि॑ता । सः । वि॒प॒न्यु॒ऽभिः॒ । सः । शूरैः॑ । सनि॑ता । कृ॒तम् ॥यस्य । त्वम् । ऊर्ध्वः । अध्वराय । तिष्ठसि । क्षयत्वीरः । सः । साधते । सः । अर्वत्भिः । सनिता । सः । विपन्युभिः । सः । शूरैः । सनिता । कृतम् ॥yasya | tvam | ūrdhvaḥ | adhvarāya | tiṣṭhasi | kṣayat-vīraḥ | saḥ | sādhate | saḥ | arvat-bhiḥ | sanitā | saḥ | vipanyu-bhiḥ | saḥ | śūraiḥ | sanitā | kṛtam