Sukta 8.19
स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते । सुवीरस्त्वमस्मयुः ॥
स्व॒ग्नयो॑ वो अ॒ग्निभि॒: स्याम॑ सूनो सहस ऊर्जां पते । सु॒वीर॒स्त्वम॑स्म॒युः ॥
svagnáyo vo agníbhiḥ syāma sūno sahasa ūrjā́ṃ pate | suvī́ras tvám asmayúḥ ||
May we be full of the right fires with thy fires, O Son of Force, Lord of energy. Be thou for us the giver of heroic strength, the one who is wholly turned to us with help.
सु॒ऽअ॒ग्नयः॑ । वः॒ । अ॒ग्निऽभिः॑ । स्याम॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । ऊ॒र्जा॒म् । प॒ते॒ । सु॒ऽवीरः॑ । त्वम् । अ॒स्म॒ऽयुः ॥सुअग्नयः । वः । अग्निभिः । स्याम । सूनो इति । सहसः । ऊर्जाम् । पते । सुवीरः । त्वम् । अस्मयुः ॥su-agnayaḥ | vaḥ | agni-bhiḥ | syāma | sūno iti | sahasaḥ | ūrjām | pate | su-vīraḥ | tvam | asma-yuḥ