Sukta 8.19
तस्येदर्वन्तो रंहयन्त आशवस्तस्य द्युम्नितमं यशः । न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत् ॥
तस्येदर्व॑न्तो रंहयन्त आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यश॑: । न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥
tásyed árvanto raṃhayanta ā́śavas tásya dyumnítamaṃ yáśaḥ | ná tám áṃho devákṛtaṃ kútaścana ná mártyakṛtaṃ naśat ||
For him the swift steeds hasten; his glory becomes most luminous. No evil, whether shaped by divine forces or by human making, can reach and strike the one who stands in the Fire’s right power.
तस्य॑ । इत् । अर्व॑न्तः । रं॒ह॒य॒न्ते॒ । आ॒शवः॑ । तस्य॑ । द्यु॒म्निऽत॑मम् । यशः॑ । न । तम् । अंहः॑ । दे॒वऽकृ॑तम् । कुतः॑ । च॒न । न । मर्त्य॑ऽकृतम् । न॒श॒त् ॥तस्य । इत् । अर्वन्तः । रंहयन्ते । आशवः । तस्य । द्युम्नितमम् । यशः । न । तम् । अंहः । देवकृतम् । कुतः । चन । न । मर्त्यकृतम् । नशत् ॥tasya | it | arvantaḥ | raṃhayante | āśavaḥ | tasya | dyumni-tamam | yaśaḥ | na | tam | aṃhaḥ | deva-kṛtam | kutaḥ | cana | na | martya-kṛtam | naśat