Sukta 8.19
ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥
ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् । स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥
ūrjó napātaṃ subhágaṃ sudī́ditim agníṃ śréṣṭhaśociṣam | sá no mitrásya váruṇasya sá apā́m ā́ sumnáṃ yakṣate diví ||
Agni, the child of energy, fortunate and brightly kindled, with the best flame—may he win for us in the heaven the grace of Mitra and Varuṇa, and the favour of the Waters, a blessing that descends as peace and fullness.
ऊ॒र्जः । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । अ॒ग्निम् । श्रेष्ठ॑ऽशोचिषम् । सः । नः॒ । मि॒त्रस्य॑ । वरु॑णस्य । सः । अ॒पाम् । आ । सु॒म्नम् । य॒क्ष॒ते॒ । दि॒वि ॥ऊर्जः । नपातम् । सुभगम् । सुदीदितिम् । अग्निम् । श्रेष्ठशोचिषम् । सः । नः । मित्रस्य । वरुणस्य । सः । अपाम् । आ । सुम्नम् । यक्षते । दिवि ॥ūrjaḥ | napātam | su-bhagam | su-dīditim | agnim | śreṣṭha-śociṣam | saḥ | naḥ | mitrasya | varuṇasya | saḥ | apām | ā | sumnam | yakṣate | divi