Sukta 8.19
अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् । मंहिष्ठो अर्यः सत्पतिः ॥
अदा॑न्मे पौरुकु॒त्स्यः प॑ञ्चा॒शतं॑ त्र॒सद॑स्युर्व॒धूना॑म् । मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥
ádān me paurukutsyáḥ pañcāśátaṃ trasádasyur vadhū́nām | maṃhíṣṭho aryáḥ sátpatiḥ ||
Trāsadasyu of the Paurukutsa line has given me fifty maidens—he, most bounteous, the noble one, lord of the true.
अदा॑त् । मे॒ । पौ॒रु॒ऽकु॒त्स्यः । प॒ञ्चा॒शत॑म् । त्र॒सद॑स्युः । व॒धूना॑म् । मंहि॑ष्ठः । अ॒र्यः । सत्ऽप॑तिः ॥अदात् । मे । पौरुकुत्स्यः । पञ्चाशतम् । त्रसदस्युः । वधूनाम् । मंहिष्ठः । अर्यः । सत्पतिः ॥adāt | me | pauru-kutsyaḥ | pañcāśatam | trasadasyuḥ | vadhūnām | maṃhiṣṭhaḥ | aryaḥ | sat-patiḥ