Sukta 8.19
यूयं राजानः कं चिच्चर्षणीसहः क्षयन्तं मानुषाँ अनु । वयं ते वो वरुण मित्रार्यमन्त्स्यामेदृतस्य रथ्यः ॥
यू॒यं रा॑जान॒: कं चि॑च्चर्षणीसह॒: क्षय॑न्तं॒ मानु॑षाँ॒ अनु॑ । व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्य॑: ॥
yūyáṃ rājānaḥ káṃ cit carṣaṇī-sahaḥ kṣáyantaṃ mā́nuṣām̐ ánu | vayáṃ te vo váruṇa mítrā́ryamant syā́ma íd ṛtásya rathyáḥ ||
You are the kings, O mighty ones who uphold the peoples, abiding with the human race. May we be indeed your companions—O Varuṇa, Mitra, Aryaman—moving on the chariot-path of ṛta (the Truth-Order).
यू॒यम् । रा॒जा॒नः॒ । कम् । चि॒त् । च॒र्ष॒णि॒ऽस॒हः॒ । क्षय॑न्तम् । मानु॑षान् । अनु॑ । व॒यम् । ते । वः॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । स्याम॑ । इत् । ऋ॒तस्य॑ । र॒थ्यः॑ ॥यूयम् । राजानः । कम् । चित् । चर्षणिसहः । क्षयन्तम् । मानुषान् । अनु । वयम् । ते । वः । वरुण । मित्र । अर्यमन् । स्याम । इत् । ऋतस्य । रथ्यः ॥yūyam | rājānaḥ | kam | cit | carṣaṇi-sahaḥ | kṣayantam | mānuṣān | anu | vayam | te | vaḥ | varuṇa | mitra | aryaman | syāma | it | ṛtasya | rathyaḥ