Sukta 8.19
उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि । तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पतिः ॥
उ॒त मे॑ प्र॒यियो॑र्व॒यियो॑: सु॒वास्त्वा॒ अधि॒ तुग्व॑नि । ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पति॑: ॥
utá me prayíyor vayíyoḥ suvā́stvā ádhi túgvani | tisṝṇā́ṃ saptatī́nāṃ śyāváḥ praṇetā́ bhúvad vásur díyānāṃ pátiḥ ||
And for me, upon Tugvan, for my two dear ones, (he has set) fair dwelling. Śyāva became the leader of the three seventies; a Vasu, the lord of the shining gifts.
उ॒त । मे॒ । प्र॒यियोः॑ । व॒यियोः॑ । सु॒ऽवास्त्वाः॑ । अधि॑ । तुग्व॑नि । ति॒सॄ॒णाम् । स॒प्त॒ती॒नाम् । श्या॒वः । प्र॒ऽने॒ता । भु॒व॒त् । वसुः॑ । दिया॑नाम् । पतिः॑ ॥उत । मे । प्रयियोः । वयियोः । सुवास्त्वाः । अधि । तुग्वनि । तिसॄणाम् । सप्ततीनाम् । श्यावः । प्रनेता । भुवत् । वसुः । दियानाम् । पतिः ॥uta | me | prayiyoḥ | vayiyoḥ | su-vāstvāḥ | adhi | tugvani | tisṝṇām | saptatīnām | śyāvaḥ | pra-netā | bhuvat | vasuḥ | diyānām | patiḥ