Sukta 8.19
तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे । सम्राजं त्रासदस्यवम् ॥
तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से । स॒म्राजं॒ त्रास॑दस्यवम् ॥
tám ā́ganma sóbharayaḥ sahásramuṣkaṃ svabhiṣṭím ávase | samrā́jaṃ trā́sadasyavam ||
To him we have come, O Sobharis, for help—Trāsadasyu, the overlord, of a thousandfold potency, of good and self-sustaining conquest.
तम् । आ । अ॒ग॒न्म॒ । सोभ॑रयः । स॒हस्र॑ऽमुष्कम् । सु॒ऽअ॒भि॒ष्टिम् । अव॑से । स॒म्ऽराज॑न् । त्रास॑दस्यवम् ॥तम् । आ । अगन्म । सोभरयः । सहस्रमुष्कम् । सुअभिष्टिम् । अवसे । सम्राजन् । त्रासदस्यवम् ॥tam | ā | aganma | sobharayaḥ | sahasra-muṣkam | su-abhiṣṭim | avase | sam-rājan | trāsadasyavam