Sukta 8.19
तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे । त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥
तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इन्धा॑नः सिष्ण॒वा द॑दे । त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥
táva drapsó nī́lavān vāśá ṛtvíya índhānaḥ siṣṇávā́ dade | tváṃ mahī́nām uṣásām asi priyáḥ kṣapó vástuṣu rājasi ||
Thy flame-drop is blue-dark and resounding; the priestly power kindled sets its force into the work. Thou art dear to the great Dawns; through the nights, in the resting-places, thou reignest as their beloved light.
तव॑ । द्र॒प्सः । नील॑ऽवान् । वा॒शः । ऋ॒त्वियः॑ । इन्धा॑नः । सि॒ष्णो॒ इति॑ । आ । द॒दे॒ । त्वम् । म॒ही॒नाम् । उ॒षसा॑म् । अ॒सि॒ । प्रि॒यः । क्ष॒पः । वस्तु॑षु । रा॒ज॒सि॒ ॥तव । द्रप्सः । नीलवान् । वाशः । ऋत्वियः । इन्धानः । सिष्णो इति । आ । ददे । त्वम् । महीनाम् । उषसाम् । असि । प्रियः । क्षपः । वस्तुषु । राजसि ॥tava | drapsaḥ | nīla-vān | vāśaḥ | ṛtviyaḥ | indhānaḥ | siṣṇo iti | ā | dade | tvam | mahīnām | uṣasām | asi | priyaḥ | kṣapaḥ | vastuṣu | rājasi