Sukta 8.19
प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः । यस्य त्वं सख्यमावरः ॥
प्र सो अ॑ग्ने॒ तवो॒तिभि॑: सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः । यस्य॒ त्वं स॒ख्यमा॒वर॑: ॥
prá só agne távotíbhiḥ suvī́rābhiḥ tirate vā́jabharmabhiḥ | yásya tváṃ sakhyám ā́varaḥ ||
Forward he goes, O Agni, by thy helps that bring heroic power; he overpasses by bearers of plenitude-force, he whose friendship thou hast accepted and covered with thy protection.
प्र । सः । अ॒ग्ने॒ । तव॑ । ऊ॒तिऽभिः॑ । सु॒ऽवीरा॑भिः । ति॒र॒ते॒ । वाज॑भर्मऽभिः । यस्य॑ । त्वम् । स॒ख्यम् । आ॒ऽवरः॑ ॥प्र । सः । अग्ने । तव । ऊतिभिः । सुवीराभिः । तिरते । वाजभर्मभिः । यस्य । त्वम् । सख्यम् । आवरः ॥pra | saḥ | agne | tava | ūti-bhiḥ | su-vīrābhiḥ | tirate | vājabharma-bhiḥ | yasya | tvam | sakhyam | āvaraḥ