Sukta 8.19
तव क्रत्वा सनेयं तव रातिभिरग्ने तव प्रशस्तिभिः । त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥
तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः । त्वामिदा॑हु॒: प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥
táva krátvā saneyam táva rātíbhiḥ agne táva práśastibhiḥ | tvā́m íd āhuḥ prámatim vaso máma agne hárṣasva dā́tave ||
By thy will of luminous action, O Agni, may I win; by thy gifts and by thy affirming praises. They indeed call thee the fore-thought and right counsel, O Vasu; O Agni, take joy in giving to me.
तव॑ । क्रत्वा॑ । स॒ने॒य॒म् । तव॑ । रा॒तिऽभिः । अग्ने॑ । तव॑ । प्रश॑स्तिऽभिः । त्वाम् । इत् । आ॒हुः॒ । प्रऽम॑तिम् । व॒सो॒ इति॑ । मम॑ । अ॒ग्ने॒ । हर्ष॑स्व । दात॑वे ॥तव । क्रत्वा । सनेयम् । तव । रातिभिः । अग्ने । तव । प्रशस्तिभिः । त्वाम् । इत् । आहुः । प्रमतिम् । वसो इति । मम । अग्ने । हर्षस्व । दातवे ॥tava | kratvā | saneyam | tava | rāti-bhiḥ | agne | tava | praśaśti-bhiḥ | tvām | it | āhuḥ | pra-matim | vaso iti | mama | agne | harṣasva | dātave