Sukta 8.19
तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो । सदा देवस्य मर्त्यः ॥
तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो । सदा॑ दे॒वस्य॒ मर्त्य॑: ॥
távā́ham agne ūtíbhiḥ nediṣṭhā́bhiḥ saceya jóṣam ā́ vaso | sádā devásya mártyaḥ ||
O Agni, by thy helps that are nearest and most intimate, may I cleave to thee in glad consent, O Vasu (power of plenitude). Always the mortal can live in the presence of the divine.
तव॑ । अ॒हम् । अ॒ग्ने॒ । ऊ॒तिऽभिः । नेदि॑ष्ठाभिः । स॒चे॒य॒ । जोष॑म् । आ । व॒सो॒ इति॑ । सदा॑ । दे॒वस्य॑ । मर्त्यः॑ ॥तव । अहम् । अग्ने । ऊतिभिः । नेदिष्ठाभिः । सचेय । जोषम् । आ । वसो इति । सदा । देवस्य । मर्त्यः ॥tava | aham | agne | ūti-bhiḥ | nediṣṭhābhiḥ | saceya | joṣam | ā | vaso iti | sadā | devasya | martyaḥ