Sukta 8.19
तिग्मजम्भाय तरुणाय राजते प्रयो गायस्यग्नये । यः पिंशते सूनृताभिः सुवीर्यमग्निर्घृतेभिराहुतः ॥
ति॒ग्मज॑म्भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ । यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥
tigmá-jambhāya tarúṇāya rājate práyo gāyasy agnáye | yáḥ piṃśáte sūnṛ́tābhiḥ su-vī́ryam agnír ghṛtébhir āhútaḥ ||
For the sharp-jawed, the ever-young who shines, you sing the offering-impulse to Agni—he who with true words fashions a noble hero-force, Agni invoked with clarified richness.
ति॒ग्मऽज॑म्भाय । तरु॑णाय । राज॑ते । प्रयः॑ । गा॒य॒सि॒ । अ॒ग्नये॑ । यः । पिं॒शते॑ । सू॒नृता॑भिः । सु॒ऽवीर्य॑म् । अ॒ग्निः । घृ॒तेभिः॑ । आऽहु॑तः ॥तिग्मजम्भाय । तरुणाय । राजते । प्रयः । गायसि । अग्नये । यः । पिंशते । सूनृताभिः । सुवीर्यम् । अग्निः । घृतेभिः । आहुतः ॥tigma-jambhāya | taruṇāya | rājate | prayaḥ | gāyasi | agnaye | yaḥ | piṃśate | sūnṛtābhiḥ | su-vīryam | agniḥ | ghṛtebhiḥ | āhutaḥ