Sukta 8.19
विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥
विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व य॒न्तुर॑म् । अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य॑म् ॥
vibhū́tarātiṃ vipra citráśociṣam agním īḷiṣva yantúram | asyá médhasya somyásya sobhare préma dhvarā́ya pū́rvyam ||
O seer, adore Agni—wide in giving, of many-colored flame, the sure guide and controller of the journey. For this inspired offering, for this Soma-rite, O Sobharī, bring forward the ancient power for the sacrifice.
विभू॑तऽरातिम् । वि॒प्र॒ । चि॒त्रऽशो॑चिषम् । अ॒ग्निम् । ई॒ळि॒ष्व॒ । य॒न्तुर॑म् । अ॒स्य । मेघ॑स्य । सो॒म्यस्य॑ । सो॒भ॒रे॒ । प्र । ई॒म् । अ॒ध्व॒राय॑ । पूर्व्य॑म् ॥विभूतरातिम् । विप्र । चित्रशोचिषम् । अग्निम् । ईळिष्व । यन्तुरम् । अस्य । मेघस्य । सोम्यस्य । सोभरे । प्र । ईम् । अध्वराय । पूर्व्यम् ॥vibhūta-rātim | vipra | citra-śociṣam | agnim | īḷiṣva | yanturam | asya | meghasya | somyasya | sobhare | pra | īm | adhvarāya | pūrvyam