Sukta 8.19
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमोहिरे ॥
तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे । दे॒व॒त्रा ह॒व्यमोहि॑रे ॥
táṃ gū́rdhayā svàrṇaraṃ devā́so devám aratíṃ dadhanvire | devatrā́ havyám ā́ ūhire ||
Him the gods set in motion with uplifted force—the divine bearer of the offering, the leader who moves in the right way; and they bring the oblation upward into the godward world.
तम् । गू॒र्ध॒य॒ । स्वः॑ऽनरम् । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । द॒ध॒न्वि॒रे॒ । दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒रे॒ ॥तम् । गूर्धय । स्वःनरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देवत्रा । हव्यम् । आ । ऊहिरे ॥tam | gūrdhaya | svaḥ-naram | devāsaḥ | devam | aratim | dadhanvire | deva-trā | havyam | ā | ūhire