Sukta 8.19
तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणम् । मन्युं जनस्य दूढ्यः ॥
तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण॑म् । म॒न्युं जन॑स्य दू॒ढ्य॑: ॥
tád agne dyumnám ā́ bhara yát sāsáhat sádane káṃ cid atríṇam | manyúṃ jánasya dūḍhyàḥ ||
Bring us that luminous power, O Agni, by which you overpower in the seat even the devourer—any hostile one—and the hard-held wrath of the people.
तत् । अ॒ग्ने॒ । द्यु॒म्नम् । आ । भ॒र॒ । यत् । स॒सह॑त् । सद॑ने । कम् । चि॒त् । अ॒त्रिण॑म् । म॒न्युम् । जन॑स्य । दुः॒ऽध्यः॑ ॥तत् । अग्ने । द्युम्नम् । आ । भर । यत् । ससहत् । सदने । कम् । चित् । अत्रिणम् । मन्युम् । जनस्य । दुःध्यः ॥tat | agne | dyumnam | ā | bhara | yat | sasahat | sadane | kam | cit | atriṇam | manyum | janasya | duḥ-dhyaḥ