Sukta 8.19
समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः । विश्वेत्स धीभिः सुभगो जनाँ अति द्युम्नैरुद्न इव तारिषत् ॥
स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्य॑: । विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥
samidhā́ yó níśitī dā́śad áditiṃ dhā́mabhir asya mártyaḥ | víśvet sá dhī́bhiḥ subhágó jánāṃ áti dyumnáir udná iva tāriṣat ||
The mortal who gives with kindling and with keen intensity, who offers Aditi by the powers of his ordered states—he, fortunate through illumined thought, crosses beyond the peoples with his lights, as one passes over the waters.
स॒म्ऽइधा॑ । यः । निऽशि॑ती । दाश॑त् । अदि॑तिम् । धाम॑ऽभिः । अ॒स्य॒ । मर्त्यः॑ । विश्वा॑ । इत् । सः । धी॒भिः । सु॒ऽभगः॑ । जना॑न् । अति॑ । द्यु॒म्नैः । उ॒द्गःऽइ॑व । ता॒रि॒ष॒त् ॥सम्इधा । यः । निशिती । दाशत् । अदितिम् । धामभिः । अस्य । मर्त्यः । विश्वा । इत् । सः । धीभिः । सुभगः । जनान् । अति । द्युम्नैः । उद्गःइव । तारिषत् ॥sam-idhā | yaḥ | ni-śitī | dāśat | aditim | dhāma-bhiḥ | asya | martyaḥ | viśvā | it | saḥ | dhībhiḥ | su-bhagaḥ | janān | ati | dyumnaiḥ | udgaḥ-iva | tāriṣat