Sukta 8.19
येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः । वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥
येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भग॑: । व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वोता विधेमहि ॥
yéna cáṣṭe váruṇo mitró aryamā́ yéna nā́satyā bhágaḥ | vayáṃ tát te śávasā gātuvíttamā índratvotā vidhemahi ||
By that power by which Varuṇa sees, and Mitra, and Aryaman, by which the Nāsatyas and Bhaga move in their right working—by that strength of yours, we who seek the best path-finding, upheld by Indrahood, would serve and build the rite.
येन॑ । चष्टे॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । येन॑ । नास॑त्या । भगः॑ । व॒यम् । तत् । ते॒ । शव॑सा । गा॒तु॒वित्ऽत॑माः । इन्द्र॑त्वाऽऊताः । वि॒धे॒म॒हि॒ ॥येन । चष्टे । वरुणः । मित्रः । अर्यमा । येन । नासत्या । भगः । वयम् । तत् । ते । शवसा । गातुवित्तमाः । इन्द्रत्वाऊताः । विधेमहि ॥yena | caṣṭe | varuṇaḥ | mitraḥ | aryamā | yena | nāsatyā | bhagaḥ | vayam | tat | te | śavasā | gātuvit-tamāḥ | indratvāūtāḥ | vidhemahi