Sukta 8.19
यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति । गिरा वाजिरशोचिषम् ॥
यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति । गि॒रा वा॑जि॒रशो॑चिषम् ॥
yó agníṃ havyádātibhir námobhir vā sudákṣam āvivā́sati | girā́ vā́jir aśóciṣam ||
He who serves Agni with offerings, or with acts of reverence—Agni the perfectly capable—who invokes him with the word, the swift flaming power: he calls down the victorious light.
यः । अ॒ग्निम् । ह॒व्यदा॑तिऽभिः । नमः॑ऽभिः । वा॒ । सु॒ऽदक्ष॑म् । आ॒ऽविवा॑सति । गि॒रा । वा॒ । अ॒जि॒रऽशो॑चिषम् ॥यः । अग्निम् । हव्यदातिभिः । नमःभिः । वा । सुदक्षम् । आविवासति । गिरा । वा । अजिरशोचिषम् ॥yaḥ | agnim | havyadāti-bhiḥ | namaḥ-bhiḥ | vā | su-dakṣam | āvivāsati | girā | vā | ajira-śociṣam