Sukta 8.19
विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु । अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः ॥
विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ । अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वच॑: ॥
víprasya vā stuvatáḥ sahaso yaho makṣū́tamasya rātíṣu | avódevam uparímartyaṃ kṛdhi váso vividúṣo vácaḥ ||
For the seer who praises you, O mighty one, be the swiftest in your gifts. Make the help divine and above the mortal measure; O Vasu, fulfil the word of the knower.
विप्र॑स्य । वा॒ । स्तु॒व॒तः । स॒ह॒सः॒ । य॒हो॒ इति॑ । म॒क्षुऽत॑मस्य । रा॒तिषु॑ । अ॒वःऽदे॑वम् । उ॒परि॑ऽमर्त्यम् । कृ॒धि॒ । वसो॒ इति॑ । वि॒वि॒दुषः॑ । वचः॑ ॥विप्रस्य । वा । स्तुवतः । सहसः । यहो इति । मक्षुतमस्य । रातिषु । अवःदेवम् । उपरिमर्त्यम् । कृधि । वसो इति । विविदुषः । वचः ॥viprasya | vā | stuvataḥ | sahasaḥ | yaho iti | makṣu-tamasya | rātiṣu | avaḥ-devam | upari-martyam | kṛdhi | vaso iti | vividuṣaḥ | vacaḥ