Sukta 8.15
तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् । वज्रं शिशाति धिषणा वरेण्यम् ॥
तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म् । वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥
táva tyád indriyáṃ bṛhát táva śúṣmam utá krátum | vájraṃ śiśāti dhiṣáṇā váreṇyam ||
Thine is that vast Indra-power; thine the impetuous force and the will of right intelligence. The discerning inspiration sharpens thy desirable thunderbolt—making the soul’s weapon keen for the cleaving of darkness.
तव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् । वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥तव । त्यत् । इन्द्रियम् । बृहत् । तव । शुष्मम् । उत । क्रतुम् । वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥tava | tyat | indriyam | bṛhat | tava | śuṣmam | uta | kratum | vajram | śiśāti | dhiṣaṇā | vareṇyam