Sukta 8.15
तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः । त्वामापः पर्वतासश्च हिन्विरे ॥
तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रव॑: । त्वामाप॒: पर्व॑तासश्च हिन्विरे ॥
táva dyáur indra paúṃsyaṃ pṛthivī́ vardhati śrávaḥ | tvā́m ā́paḥ párvatāsaś ca hinvire ||
Heaven, O Indra, and Earth increase thy manly might and thy radiant renown; the waters and the mountains urge thee on—so that the whole being supports the soul’s victorious advance.
तव॑ । द्यौः । इ॒न्द्र॒ । पौंस्य॑म् । पृ॒थि॒वी । व॒र्ध॒ति॒ । श्रवः॑ । त्वाम् । आपः॑ । पर्व॑तासः । च॒ । हि॒न्वि॒रे॒ ॥तव । द्यौः । इन्द्र । पौंस्यम् । पृथिवी । वर्धति । श्रवः । त्वाम् । आपः । पर्वतासः । च । हिन्विरे ॥tava | dyauḥ | indra | paiṃsyam | pṛthivī | vardhati | śravaḥ | tvām | āpaḥ | pavartāsaḥ | ca | hinvire