Sukta 8.15
येन ज्योतींष्यायवे मनवे च विवेदिथ । मन्दानो अस्य बर्हिषो वि राजसि ॥
येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ । म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
yéna jyótīṃṣy āyáve mánave ca vivedítha | mandānó asyá bárhiṣo ví rājasi ||
By whom thou didst bring to light the luminous rays for Āyu and for Manu; rejoicing, thou shinest widely upon this sacred seat—making our offering-ground a field of radiance in consciousness.
येन॑ । ज्योतीं॑षि । आ॒यवे॑ । मन॑वे । च॒ । वि॒वेदि॑थ । म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥येन । ज्योतींषि । आयवे । मनवे । च । विवेदिथ । मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥yena | jyotīṃṣi | āyave | manave | ca | viveditha | mandānaḥ | asya | barhiṣaḥ | vi | rājasi