Sukta 8.15
तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् । उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥
táṃ te mádaṃ gṛṇīmasi vṛ́ṣaṇaṃ pṛtsú sāsahím | ū́ lokakṛ́tnum adrivo hariśríyam ||
We utter thy ecstasy of force—thy bull-like might that conquers in the battles. O wielder of the stone, thou who makest the worlds complete, come in the splendour of the tawny steeds: establish the full order of our inner realms.
तम् । ते॒ । मद॑म् । गृ॒णी॒म॒सि॒ । वृष॑णम् । पृ॒त्ऽसु । स॒स॒हिम् । ऊँ॒ इति॑ । लो॒क॒ऽकृ॒त्नुम् । अ॒द्रि॒ऽवः॒ । ह॒रि॒ऽश्रिय॑म् ॥तम् । ते । मदम् । गृणीमसि । वृषणम् । पृत्सु । ससहिम् । ऊँ इति । लोककृत्नुम् । अद्रिवः । हरिश्रियम् ॥tam | te | madam | gṛṇīmasi | vṛṣaṇam | pṛt-su | sasahim | oṃ iti | loka-kṛtnum | adri-vaḥ | hari-śriyam