Sukta 8.15
स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे । इन्द्र जैत्रा श्रवस्या च यन्तवे ॥
स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे । इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे ॥
sá rājasi puruṣṭutā́m̐ éko vṛtrā́ṇi jighnase | índra jáitrā śravasyā̀ ca yántave ||
Thou rulest, O much-praised Indra; alone thou strikest down the Vṛtras, the enclosing resistances. Come to us bringing victory and the increasing fame of the soul’s triumph.
सः । रा॒ज॒सि॒ । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । इन्द्र॑ । जैत्रा॑ । श्र॒व॒स्या॑ । च॒ । यन्त॑वे ॥सः । राजसि । पुरुस्तुत । एकः । वृत्राणि । जिघ्नसे । इन्द्र । जैत्रा । श्रवस्या । च । यन्तवे ॥saḥ | rājasi | puru-stuta | ekaḥ | vṛtrāṇi | jighnase | indra | jaitrā | śravasyā | ca | yantave