Sukta 8.15
यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी । गिरीँरज्राँ अपः स्वर्वृषत्वना ॥
यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी । गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ॥
yásya dvibárhaso bṛhát sáho dādhā́ra ródasī | girī́m̐r ájrām̐ ápaḥ svàr vṛṣatvanā́ ||
He whose vast and double-strengthened might upholds the two worlds—he who, by his virile mastery, sets free the firm-held mountains, the waters, and the sunlit radiance: that is Indra’s power of widening Truth.
यस्य॑ । द्वि॒ऽबर्ह॑सः । बृ॒हत् । सहः॑ । दा॒धार॑ । रोद॑सी॒ इति॑ । गि॒रीन् । अज्रा॑न् । अ॒पः । स्वः॑ । वृ॒ष॒ऽत्व॒ना ॥यस्य । द्विबर्हसः । बृहत् । सहः । दाधार । रोदसी इति । गिरीन् । अज्रान् । अपः । स्वः । वृषत्वना ॥yasya | dvi-barhasaḥ | bṛhat | sahaḥ | dādhāra | rodasī iti | girīn | ajrān | apaḥ | svaḥ | vṛṣa-tvanā