Sukta 8.14
इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च । स्थिराणि न पराणुदे ॥
इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च । स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥
índreṇa rocanā́ divó dṛḷhā́ni dṛṃhitā́ni ca | sthirā́ṇi ná parā́ṇude ||
By Indra the luminous spaces of heaven are made firm and strongly founded; they stand stable and are not driven away—so the established Light of the higher mind does not collapse in us.
इन्द्रे॑ण । रो॒च॒ना । दि॒वः । दृ॒ळ्हानि॑ । दृं॒हि॒तानि॑ । च॒ । स्थि॒राणि॑ । न । प॒रा॒ऽनुदे॑ ॥इन्द्रेण । रोचना । दिवः । दृळ्हानि । दृंहितानि । च । स्थिराणि । न । परानुदे ॥indreṇa | rocanā | divaḥ | dṛḷhāni | dṛṃhitāni | ca | sthirāṇi | na | parānude