Sukta 8.14
उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः । अर्वाञ्चं नुनुदे वलम् ॥
उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः । अ॒र्वाञ्चं॑ नुनुदे व॒लम् ॥
úd gā́ ājad áṅgirobhya āvíṣ kṛṇván guhā́ satī́ḥ | arvā́ñcaṃ nunude valám ||
He drove the Rays (the Cows) upward for the Angirases, making manifest what lay hidden in the cave; and he thrust back Vala, the enclosing resistance, so that the Light could return to us.
उत् । गाः । आ॒ज॒त् । अङ्गि॑रःऽभ्यः । आ॒विः । कृ॒ण्वन् । गुहा॑ । स॒तीः । अ॒र्वाञ्च॑म् । नु॒नु॒दे॒ । व॒लम् ॥उत् । गाः । आजत् । अङ्गिरःभ्यः । आविः । कृण्वन् । गुहा । सतीः । अर्वाञ्चम् । नुनुदे । वलम् ॥ut | gāḥ | ājat | aṅgiraḥ-bhyaḥ | āviḥ | kṛṇvan | guhā | satīḥ | arvāñcam | nunude | valam