Sukta 8.14
वावृधानस्य ते वयं विश्वा धनानि जिग्युषः । ऊतिमिन्द्रा वृणीमहे ॥
वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युष॑: । ऊ॒तिमि॒न्द्रा वृ॑णीमहे ॥
vāvṛdhānáasya te vayáṃ víśvā dhánāni jigyúṣaḥ | ūtím indrā́ vṛṇīmahe ||
We, who would win all the treasures of being, choose your protection, O Indra, you who grow ever greater; for by your increase our powers of possession become complete.
वा॒वृ॒धा॒नस्य॑ । ते॒ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युषः॑ । ऊ॒तिम् । इ॒न्द्र॒ । आ । वृ॒णी॒म॒हे॒ ॥वावृधानस्य । ते । वयम् । विश्वा । धनानि । जिग्युषः । ऊतिम् । इन्द्र । आ । वृणीमहे ॥vāvṛdhānasya | te | vayam | viśvā | dhanāni | jigyuṣaḥ | ūtim | indra | ā | vṛṇīmahe